॥ श्री गोविन्द दामोदर स्तोत्रम् ॥
अग्रे कुरूणामथ पाण्डवानांदुःशासनेनाहृतवस्त्रकेशा।
कृष्णा तदाक्रोशदनन्यनाथागोविन्द दामोदर माधवेति॥1॥
श्रीकृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे।
त्रायस्व मां केशव लोकनाथगोविन्द दामोदर माधवेति॥2॥
विक्रेतुकामाखिलगोपकन्यामुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति॥3॥
उलूखले सम्भृततण्डुलांश्चसंघट्टयन्त्यो मुसलैः प्रमुग्धाः।
गायन्ति गोप्यो जनितानुरागागोविन्द दामोदर माधवेति॥4॥
काचित्कराम्भोजपुटे निषण्णंक्रीडाशुकं किंशुकरक्ततुण्डम्।
अध्यापयामास सरोरुहाक्षीगोविन्द दामोदर माधवेति॥5॥
गृहे गृहे गोपवधूसमूहःप्रतिक्षणं पिञ्जरसारिकाणाम्।
स्खलद्गिरं वाचयितुं प्रवृत्तोगोविन्द दामोदर माधवेति॥6॥
पर्य्यङ्किकाभाजमलं कुमारंप्रस्वापयन्त्योऽखिलगोपकन्याः।
जगुः प्रबन्धं स्वरतालबन्धंगोविन्द दामोदर माधवेति॥7॥
रामानुजं वीक्षणकेलिलोलंगोपी गृहीत्वा नवनीतगोलम्।
आबालकं बालकमाजुहावगोविन्द दामोदर माधवेति॥8॥
विचित्रवर्णाभरणाभिरामेऽभिधेहिवक्त्राम्बुजराजहंसि।
सदा मदीये रसनेऽग्ररङ्गेगोविन्द दामोदर माधवेति॥9॥
अङ्काधिरूढं शिशुगोपगूढंस्तनं धयन्तं कमलैककान्तम्।
सम्बोधयामास मुदा यशोदागोविन्द दामोदर माधवेति॥10॥
क्रीडन्तमन्तर्व्रजमात्मजं स्वंसमं वयस्यैः पशुपालबालैः।
प्रेम्णा यशोदा प्रजुहाव कृष्णंगोविन्द दामोदर माधवेति॥11॥
यशोदया गाढमुलूखलेनगोकण्ठपाशेन निबध्यमानः।
रुरोद मन्दं नवनीतभोजीगोविन्द दामोदर माधवेति॥12॥
निजाङ्गणे कङ्कणकेलिलोलंगोपी गृहीत्वा नवनीतगोलम्।
आमर्दयत्पाणितलेन नेत्रेगोविन्द दामोदर माधवेति॥13॥
गृहे गृहे गोपवधूकदम्बाःसर्वे मिलित्वा समवाययोगे।
पुण्यानि नामानि पठन्ति नित्यंगोविन्द दामोदर माधवेति॥14॥
मन्दारमूले वदनाभिरामंबिम्बाधरे पूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थंगोविन्द दामोदर माधवेति॥15॥
उत्थाय गोप्योऽपररात्रभागेस्मृत्वा यशोदासुतबालकेलिम्।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्योगोविन्द दामोदर माधवेति॥16॥
जग्धोऽथ दत्तो नवनीतपिण्डोगृहे यशोदा विचिकित्सयन्ती।
उवाच सत्यं वद हे मुरारेगोविन्द दामोदर माधवेति॥17॥
अभ्यर्च्य गेहं युवतिःप्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ।
गायन्ति गोप्योऽथ सखीसमेतागोविन्द दामोदर माधवेति॥18॥
क्वचित् प्रभाते दधिपूर्णपात्रेनिक्षिप्य मन्थं युवती मुकुन्दम्।
आलोक्य गानं विविधं करोतिगोविन्द दामोदर माधवेति॥19॥
क्रीडापरं भोजनमज्जनार्थंितैषिणी स्त्री तनुजं यशोदा।
आजूहवत् प्रेमपरिप्लुताक्षीगोविन्द दामोदर माधवेति॥20॥
सुखं शयानं निलये च विष्णुंदेवर्षिमुख्या मुनयः प्रपन्नाः।
तेनाच्युते तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति॥21॥
विहाय निद्रामरुणोदये चविधाय कृत्यानि च विप्रमुख्याः।
वेदावसाने प्रपठन्ति नित्यंगोविन्द दामोदर माधवेति॥22॥
वृन्दावने गोपगणाश्च गोप्योविलोक्य गोविन्दवियोगखिन्नाम्।
राधां जगुः साश्रुविलोचनाभ्यांगोविन्द दामोदर माधवेति॥23॥
प्रभातसञ्चारगता नुगावस्तद्रक्षणार्थं तनयं यशोदा।
प्राबोधयत् पाणितलेन मन्दंगोविन्द दामोदर माधवेति॥24॥
प्रवालशोभा इव दीर्घकेशावाताम्बुपर्णाशनपूतदेहाः।
मूले तरूणां मुनयः पठन्तिगोविन्द दामोदर माधवेति॥25॥
एवं ब्रुवाणा विरहातुरा भृशंव्रजस्त्रियः कृष्णविषक्तमानसाः।
विसृज्य लज्जां रुरुदुः स्म सुस्वरंगोविन्द दामोदर माधवेति॥26॥